Home प्रकीर्ण महावाक्य क्या हैं ?

महावाक्य क्या हैं ?

1295

॥ वैष्णवानां न्यासः ॥

विष्णुर्ऋषिः । गायत्री छन्दः । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मुक्त्यर्थे जपे विनियोगः ।

विष्णुर्ऋषये नमः शिरसि ।
गायत्रीछन्दसे नमो मुखे ।
परमात्मदेवतायै नमो हृदि ।
ऐं बीजाय नमो गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सौः कीलकाय नमो नाभौ ।
मम मुक्त्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

वासुदेवाय अङ्गुष्ठाभ्यां नमः।
सङ्कर्षणाय तर्जनीभ्यां स्वाहा।
प्रद्युम्नाय मध्यमाभ्यां वषट् ।
अनिरुद्धाय अनामिकाभ्यां हुम् ।
वासुदेवाय कनिष्ठिकाभ्यां वौषट् ।
वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृष्ठाभ्यां फट् ।

वासुदेवाय हृदयाय नमः।
सङ्कर्षणाय शिरसे स्वाहा।
प्रद्युम्नाय शिखायै वषट् ।
अनिरुद्धाय कवचाय हुम् ।
वासुदेवाय नेत्रत्रयाय वौषट् ।
वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्योऽस्त्राय फट् ।

॥ भूर्भुवःस्वरोमिति दिग्बन्धः ॥

*-*-*

॥ शैवानां न्यासः ॥

परमहंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ।

मम मुक्त्यर्थे जपे विनियोगः ।

परमहंस ऋषये नमः शिरसि ।
अव्यक्तगायत्रीछन्दसे नमो मुखे ।
परमहंसो देवतायै नमो हृदि ।
हं बीजाय नमो गुह्ये ।
सः शक्तये नमः पादयोः ।
सोऽहं कीलकाय नमो नाभौ ।
मम मुक्त्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

तत्पुरुषाय अङ्गुष्ठाभ्यां नमः ।
ईशानाय तर्जनीभ्यां स्वाहा ।
अघोराय मध्यमाभ्यां वषट् ।
सद्योजाताय अनामिकाभ्यां हुम् ।
वामदेवाय कनिष्ठिकाभ्यां वौषट् ।
तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यः करतलकरपृष्ठाभ्यां फट् ।

तत्पुरुषाय हृदयाय नमः ।
ईशानाय शिरसे स्वाहा ।
अघोराय शिखायै वषट् ।
सद्योजाताय कवचाय हुम् ।
वामदेवाय नेत्रत्रयाय वौषट् ।
तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्योऽस्त्राय फट् ।

॥ भूर्भुवःस्वरोमिति दिग्बन्धः ॥

*-*-*

॥ शाक्तानां न्यासः ॥

मन ऋषिः । गायत्री छन्दः । अर्धनारीश्वरो देवता । अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् ।

मम मुक्त्यर्थे जपे विनियोगः ।

मन ऋषये नमः शिरसि ।
गायत्रीछन्दसे नमो मुखे ।
अर्धनारीश्वरो देवतायै नमो हृदि ।
अव्यक्तादिर्बीजाय नमो गुह्ये ।
नृसिंहशक्तये नमः पादयोः ।
परमात्मकीलकाय नमो नाभौ ।
मम मुक्त्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः ।
अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा ।
तेजोद्व्यणुकाय मध्यमाभ्यां वषट् ।
वायुद्व्यणुकाय अनामिकाभ्यां हुम् ।
आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् ।
पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः करतलकरपृष्ठाभ्यां फट् ।

पृथ्वीद्व्यणुकाय हृदयाय नमः ।
अब्द्व्यणुकाय शिरसे स्वाहा ।
तेजोद्व्यणुकाय शिखायै वषट् ।
वायुद्व्यणुकाय कवचाय हुम् ।
आकाशद्व्यणुकाय नेत्रत्रयाय वौषट् ।
पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्योऽस्त्राय फट् ।

॥ भूर्भुवःस्वरोमिति दिग्बन्धः ॥

*-*-*

॥ सौरगाणपत्यकौलनिग्रहादिसर्वयतीन्द्राणाञ्च न्यासः ॥

ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः ।

हंस ऋषये नमः शिरसि ।
अव्यक्तगायत्रीछन्दसे नमो मुखे ।
परमहंसो देवतायै नमो हृदि ।
हं बीजाय नमो गुह्ये ।
सः शक्तये नमः पादयोः ।
सोऽहं कीलकाय नमो नाभौ ।
मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगाय नमः सर्वाङ्गे ।

सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः ।
नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा ।
नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् ।
यो वै भूमा अनामिकाभ्यां हुम् ।
यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् ।
एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् ।

सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः ।
नित्यानन्दो ब्रह्म शिरसे स्वाहा ।
नित्यानन्दमयं ब्रह्म शिखायै वषट् ।
यो वै भूमा कवचाय हुम् ।
यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् ।
एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् ।

॥ भूर्भुवःस्वरोमिति दिग्बन्धः ॥

*-*-*